Loading...
📅 Loading...
🕉️ गणना हो रही है...

श्री अमोघ शिव कवचम्

॥ श्री अमोघ शिव कवचम् ॥

॥ विनियोगः ॥

अस्य श्रीशिवकवचस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः ।
अनुष्टुप् छन्दः ।
श्रीसदाशिवरुद्रो देवता ।
ह्रीं शक्तिः । वं कीलकम् ।
श्रीं ह्रीं क्लीं बीजम् ।
सदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोगः ॥

॥ ऋष्यादिन्यासः ॥

ॐ ब्रह्मर्षये नमः — शिरसि ।
अनुष्टुप् छन्दसे नमः — मुखे ।
श्रीसदाशिवरुद्रदेवतायै नमः — हृदि ।
ह्रीं शक्तये नमः — पादयोः ।
वं कीलकाय नमः — नाभौ ।
श्रीं ह्रीं क्लीमिति बीजाय नमः — गुह्ये ।
विनियोगाय नमः — सर्वाङ्गे ॥

॥ करन्यासः ॥

ॐ नमो भगवते ज्वलज्ज्वालामालिने ।
ॐ ह्रीं रां सर्वशक्तिधाम्ने ईशानात्मने अङ्गुष्ठाभ्यां नमः ॥

ॐ नमो भगवते ज्वलज्ज्वालामालिने ।
ॐ नं रीं नित्यतृप्तिधाम्ने तत्पुरुषात्मने तर्जनीभ्यां नमः ॥

ॐ नमो भगवते ज्वलज्ज्वालामालिने ।
ॐ मं रूं अनादिशक्तिधाम्ने अघोरात्मने मध्यमाभ्यां नमः ॥

ॐ नमो भगवते ज्वलज्ज्वालामालिने ।
ॐ शिं रैं स्वतन्त्रशक्तिधाम्ने वामदेवात्मने अनामिकाभ्यां नमः ॥

ॐ नमो भगवते ज्वलज्ज्वालामालिने ।
ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्मने कनिष्ठिकाभ्यां नमः ॥

ॐ नमो भगवते ज्वलज्ज्वालामालिने ।
ॐ यं रः अनादिशक्तिधाम्ने सर्वात्मने करतलकरपृष्ठाभ्यां नमः ॥

॥ हृदयादि अङ्गन्यासः ॥

ॐ नमो भगवते ज्वलज्ज्वालामालिने ।
ॐ ह्रीं रां सर्वशक्तिधाम्ने ईशानात्मने हृदयाय नमः ॥

ॐ नमो भगवते ज्वलज्ज्वालामालिने ।
ॐ नं रीं नित्यतृप्तिधाम्ने तत्पुरुषात्मने शिरसे स्वाहा ॥

ॐ नमो भगवते ज्वलज्ज्वालामालिने ।
ॐ मं रूं अनादिशक्तिधाम्ने अघोरात्मने शिखायै वषट् ॥

ॐ नमो भगवते ज्वलज्ज्वालामालिने ।
ॐ शिं रैं स्वतन्त्रशक्तिधाम्ने वामदेवात्मने कवचाय हुम् ॥

ॐ नमो भगवते ज्वलज्ज्वालामालिने ।
ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्मने नेत्रत्रयाय वौषट् ॥

ॐ नमो भगवते ज्वलज्ज्वालामालिने ।
ॐ यं रः अनादिशक्तिधाम्ने सर्वात्मने अस्त्राय फट् ॥

॥ ध्यानम् ॥

वज्रदंष्ट्रं त्रिनयनं कालकण्ठमरिन्दमम् ।
सहस्रकरमत्युग्रं वन्दे शम्भुमुमापतिम् ॥

॥ अथ कवचम् ॥

॥ ऋषभ उवाच ॥

अथापरं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम् ।
जयप्रदं सर्वविपद्विमोचनं वक्ष्यामि शैवं कवचं हिताय ते ॥

नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् ।
वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥१॥

शुचौ देशे समासीनो यथावत्कल्पितासनः ।
जितेन्द्रियो जितप्राणश्चिन्तयेच्छिवमव्ययम् ॥२॥

हृत्पुण्डरीकान्तरसन्निविष्टं स्वतेजसा व्याप्तनभोऽवकाशम् ।
अतीन्द्रियं सूक्ष्ममनन्तमाद्यं ध्यायेत्परानन्दमयं महेशम् ॥३॥

ध्यानावधूताखिलकर्मबन्धश्चिरं चिदानन्दनिमग्नचेताः ।
षडक्षरन्याससमाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् ॥४॥

मां पातु देवोऽखिलदेवतात्मा संसारकूपे पतितं गभीरे ।
तन्नाम दिव्यं वरमन्त्रमूलं धुनोतु मे सर्वमघं हृदिस्थम् ॥५॥

सर्वत्र मां रक्षतु विश्वमूर्तिर्ज्योतिर्मयानन्दघनश्चिदात्मा ।
अणोरणीयानुरुशक्तिरेकः स ईश्वरः पातु भयादशेषात् ॥६॥

यो भूस्वरूपेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशोऽष्टमूर्तिः ।
योऽपां स्वरूपेण नृणां करोति संजीवनं सोऽवतु मां जलेभ्यः ॥७॥

कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः ।
स कालरुद्रोऽवतु मां दवाग्नेर्वात्यादिभीतेरखिलाच्च तापात् ॥८॥

प्रदीप्तविद्युत्कनकावभासो विद्यावराभीतिकुठारपाणिः ।
चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितं रक्षतु मामजस्रम् ॥९॥

कुठारवेदाङ्कुशपाशशूलकपालढक्काक्षगुणान् दधानः ।
चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ॥१०॥

कुन्देन्दुशङ्खस्फटिकावभासो वेदाक्षमालावरदाभयाङ्कः ।
त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्योऽधिजातोऽवतु मां प्रतीच्याम् ॥११॥

वराक्षमालाभयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः ।
त्रिलोचनश्चारुचतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः ॥१२॥

वेदाभयेष्टाङ्कुशपाशटङ्ककपालढक्काक्षकशूलपाणिः ।
सितद्युतिः पञ्चमुखोऽवतान्मामीशान ऊर्ध्वं परमप्रकाशः ॥१३॥

मूर्धानमव्यान्मम चन्द्रमौलिर्भालं ममाव्यादथ भालनेत्रः ।
नेत्रे ममाव्याद्भगनेत्रहारी नासां सदा रक्षतु विश्वनाथः ॥१४॥

पायाच्छ्रुती मे श्रुतिगीतकीर्तिः कपोलमव्यात्सततं कपाली ।
वक्त्रं सदा रक्षतु पञ्चवक्त्रो जिह्वां सदा रक्षतु वेदजिह्वः ॥१५॥

कण्ठं गिरीशोऽवतु नीलकण्ठः पाणिद्वयं पातु पिनाकपाणिः ।
दोर्मूलमव्यान्मम धर्मबाहुर्वक्षःस्थलं दक्षमखान्तकोऽव्यात् ॥१६॥

ममोदरं पातु गिरीन्द्रधन्वा मध्यं ममाव्यान्मदनान्तकारी ।
हेरम्बतातो मम पातु नाभिं पायात्कटिं धूर्जटिरीश्वरो मे ॥१७॥

ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरोऽव्यात् ।
जङ्घायुगं पुङ्गवकेतुरव्यात्पादौ ममाव्यात्सुरवन्द्यपादः ॥१८॥

महेश्वरः पातु दिनादियामे मां मध्ययामेऽवतु वामदेवः ।
त्र्यम्बकः पातु तृतीययामे वृषध्वजः पातु दिनान्तयामे ॥१९॥

पायान्निशादौ शशिशेखरो मां गङ्गाधरो रक्षतु मां निशीथे ।
गौरीपतिः पातु निशावसाने मृत्युञ्जयो रक्षतु सर्वकालम् ॥२०॥

अन्तःस्थितं रक्षतु शङ्करो मां स्थाणुः सदा पातु बहिःस्थितं माम् ।
तदन्तरे पातु पतिः पशूनां सदाशिवो रक्षतु मां समन्तात् ॥२१॥

तिष्ठन्तमव्याद्भुवनैकनाथः पायाद्व्रजन्तं प्रमथाधिनाथः ।
वेदान्तवेद्योऽवतु मां निषण्णं मामव्ययः पातु शिवः शयानम् ॥२२॥

मार्गेषु मां रक्षतु नीलकण्ठः शैलादिदुर्गेषु पुरत्रयारिः ।
अरण्यवासादिमहाप्रवासे पायान्मृगव्याध उदारशक्तिः ॥२३॥

कल्पान्तकाटोपपटुप्रकोपः स्फुटाट्टहासोच्चलिताण्डकोशः ।
घोरारिसेनार्णवदुर्निवारमहाभयाद्रक्षतु वीरभद्रः ॥२४॥

पत्त्यश्वमातङ्गघटावरूथसहस्रलक्षायुतकोटिभीषणम् ।
अक्षौहिणीनां शतमाततायिनां छिन्द्यान्मृडो घोरकुठारधारया ॥२५॥

निहन्तु दस्यून् प्रलयानलार्चिर्ज्वलत्त्रिशूलं त्रिपुरान्तकस्य ।
शार्दूलसिंहर्क्षवृकादिहिंस्रान् संत्रासयत्वीशधनुः पिनाकम् ॥२६॥

दुःस्वप्नदुःशकुनदुर्गतिदौर्मनस्यदुर्भिक्षदुर्व्यसनदुःसहदुर्यशांसि ।
उत्पाततापविषभीतिमसद्ग्रहार्तिव्याधींश्च नाशयतु मे जगतामधीशः ॥२७॥

॥ अमोघ शिव कवच महामन्त्र ॥

ॐ नमो भगवते सदाशिवाय सकलतत्त्वात्मकाय सकलतत्त्वविहाराय
सकललोकैककर्त्रे सकललोकैकभर्त्रे सकललोकैकहर्त्रे
सकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय
सकलवरप्रदाय सकलदुरितार्तिभञ्जनाय सकलजगदभयङ्कराय
सकललोकैकशङ्कराय शशाङ्कशेखराय शाश्वतनिजाभासाय
निर्गुणाय निरूपमाय निरूपाय निराभासाय निरामयाय
निष्प्रपञ्चाय निष्कलङ्काय निर्द्वन्द्वाय निःसङ्गाय निर्मलाय
नित्यरूपविभवाय निरुपमविभवाय निराधाराय
नित्यशुद्धबुद्धपरिपूर्णसच्चिदानन्दाद्वयाय
परमशान्तप्रकाशतेजोरूपाय ॥

जय जय महारुद्र महारौद्र भद्रावतार दुःखदावदारण
महाभैरव कालभैरव कल्पान्तभैरव कपालमालाधर
खट्वाङ्गखड्गचर्मपाशाङ्कुशडमरुशूलचापबाणगदाशक्ति
भिन्दिपालतोमरमुसलमुद्गरपट्टिशपरशुपरिघभुशुण्डी
शतघ्नीचक्राद्यायुधभीषणकर सहस्रमुख दंष्ट्राकराल
विकटाट्टहासविस्फारितब्रह्माण्डमण्डल नागेन्द्रकुण्डल
नागेन्द्रहार नागेन्द्रवलय नागेन्द्रचर्मधर मृत्युंजय त्र्यम्बक
त्रिपुरान्तक विरूपाक्ष विश्वेश्वर विश्वरूप वृषभवाहन
विषभूषण विश्वतोमुख ॥

सर्वतो रक्ष रक्ष मां ।
ज्वल ज्वल ।
महामृत्युभयमपमृत्युभयं नाशय नाशय ।
रोगभयमुत्सादयोत्सादय ।
विषसर्पभयं शमय शमय ।
चोरभयं मारय मारय ।
मम शत्रूनुच्चाटयोच्चाटय ।
शूलेन विदारय विदारय ।
कुठारेण भिन्धि भिन्धि ।
खड्गेन छिन्धि छिन्धि ।
खट्वाङ्गेन विपोथय विपोथय ।
मुसलेन निष्पेषय निष्पेषय ।
बाणैः सन्ताडय सन्ताडय ।
रक्षांसि भीषय भीषय ।
भूतानि विद्रावय विद्रावय ।
कूष्माण्डवेतालमारीगणब्रह्मराक्षसान् संत्रासय संत्रासय ।
मामभयं कुरु कुरु ।
वित्रस्तं मामाश्वासयाश्वासय ।
नरकभयान्मामुद्धारयोद्धारय ।
संजीवय संजीवय ।
क्षुत्तृड्भ्यां मामाप्याययाप्यायय ।
दुःखातुरं मामानन्दयानन्दय ।
शिवकवचेन मामाच्छादयाच्छादय ।
त्र्यम्बक सदाशिव नमस्ते नमस्ते नमस्ते ॥

॥ ऋषभ उवाच ॥

इत्येतत्कवचं शैवं वरदं व्याहृतं मया ।
सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनाम् ॥२८॥

यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् ।
न तस्य जायते क्वापि भयं शम्भोरनुग्रहात् ॥२९॥

क्षीणायुर्मृत्युमापन्नो महारोगहतोऽपि वा ।
सद्यः सुखमवाप्नोति दीर्घमायुश्च विन्दति ॥३०॥

सर्वदारिद्र्यशमनं सौमङ्गल्यविवर्धनम् ।
यो धत्ते कवचं शैवं स देवैरपि पूज्यते ॥३१॥

महापातकसङ्घातैर्मुच्यते चोपपातकैः ।
देहान्ते शिवमाप्नोति शिववर्मानुभावतः ॥३२॥

त्वमपि श्रद्धया वत्स शैवं कवचमुत्तमम् ।
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ॥३३॥

॥ सूत उवाच ॥

इत्युक्त्वा ऋषभो योगी तस्मै पार्थिवसूनवे ।
ददौ शङ्खं महारावं खड्गं चारिनिषूदनम् ॥३४॥

पुनश्च भस्म सम्मन्त्र्य तदङ्गं सर्वतोऽस्पृशत् ।
गजानां षट्सहस्रस्य द्विगुणं च बलं ददौ ॥३५॥

भस्मप्रभावात्सम्प्राप्य बलैश्वर्यधृतिस्मृतीः ।
स राजपुत्रः शुशुभे शरदर्क इव श्रिया ॥३६॥

तमाह प्राञ्जलिं भूयः स योगी राजनन्दनम् ।
एष खड्गो मया दत्तस्तपोमन्त्रानुभावतः ॥३७॥

शितधारमिमं खड्गं यस्मै दर्शयसि स्फुटम् ।
स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् ॥३८॥

अस्य शङ्खस्य निह्रादं ये शृण्वन्ति तवाहिताः ।
ते मूर्च्छिताः पतिष्यन्ति न्यस्तशस्त्रा विचेतनाः ॥३९॥

खड्गशङ्खाविमौ दिव्यौ परसैन्यविनाशिनौ ।
आत्मसैन्यस्वपक्षाणां शौर्यतेजोविवर्धनौ ॥४०॥

एतयोश्च प्रभावेन शैवेन कवचेन च ।
द्विषट्सहस्रनागानां बलेन महतापि च ॥४१॥

भस्मधारणसामर्थ्याच्छत्रुसैन्यं विजेष्यसि ।
प्राप्य सिंहासनं पैत्र्यं गोप्तासि पृथिवीमिमाम् ॥४२॥

इति भद्रायुषं सम्यगनुशास्य समातृकम् ।
ताभ्यां सम्पूजितः सोऽथ योगी स्वैरगतिर्ययौ ॥४३॥

॥ समापन ॥

॥ इति श्रीस्कान्दे महापुराणे ब्रह्मोत्तरखण्डे
शिवकवचकथनं नाम द्वादशोऽध्यायः ॥

॥ इति श्री अमोघ शिव कवचम् सम्पूर्णम् ॥

॥ ॐ नमः शिवाय ॥
॥ हर हर महादेव ॥

Scroll to Top