Loading...
📅 Loading...
🕉️ गणना हो रही है...

आग्नेय स्तोत्र

॥ आग्नेय स्तोत्र ॥

॥ अथ आञ्जनेयास्त्रम् ॥

अधुना गिरिजानन्द आञ्जनेयास्त्रमुत्तमम् ।
समन्त्रं सप्रयोगं च वद मे परमेश्वर ॥१॥

॥ ईश्वर उवाच ॥

ब्रह्मास्त्रं स्तम्भकाधारि महाबलपराक्रम् ।
मन्त्रोद्धारमहं वक्ष्ये शृणु त्वं परमेश्वरि ॥२॥

आदौ प्रणवमुच्चार्य मायामन्मथवाग्भवम् ।
शक्तिवाराहबीजं च वायुबीजमनन्तरम् ॥३॥

विषयं द्वितीयं पश्चाद् वायुबीजमनन्तरम् ।
ग्रसयुग्मं पुनर्वायुबीजं चोच्चार्य पार्वति ॥४॥

स्फुरयुग्मं वायुबीजं प्रस्फुरद्वितीयं पुनः ।
वायुबीजं ततोच्चार्य हुं फट् स्वाहा समन्वितम् ॥५॥

आञ्जनेयास्त्रमनघे पञ्चपञ्चदशाक्षरम् ।
कालरुद्रो ऋषिः प्रोक्तो गायत्रीच्छन्द उच्यते ॥६॥

देवता विश्वरूप श्रीवायुपुत्रः कुलेश्वरि ।
ह्रूं बीजं कीलकं ग्लौं च ह्रींकारः शक्तिमेव च ॥७॥

प्रयोगं सर्वकार्येषु चास्त्रेणानेन पार्वति ।
विद्वेषोच्चाटनेष्वेव मारणेषु प्रशस्यते ॥८॥

॥ विनियोगः ॥

ॐ अस्य श्रीहनुमद्-आञ्जनेयास्त्र-विद्या-मन्त्रस्य कालरुद्र ऋषिः, गायत्री छन्दः, विश्वरूप-श्रीवायुपुत्रो देवता, ह्रूं बीजं, ग्लौं कीलकं, ह्रीं शक्तिः, मम शत्रुनिग्रहार्थे हनुमन्नस्त्रजपे विनियोगः ॥

॥ मन्त्रः ॥

ॐ ह्रीं क्लीं ऐं सौं ग्लौं यं शोषय शोषय यं ग्रस ग्रस यं विदारय विदारय यं भस्मी कुरु कुरु यं स्फुर स्फुर यं प्रस्फुर प्रस्फुर यं सौं ग्लौं हुं फट् स्वाहा ॥

॥ विधान ॥

नामद्वयं समुच्चार्यं मन्त्रादौ कुलसुन्दरि ।
प्रयोगेषु तथान्येषु सुप्रशस्तो ह्ययं मनुः ॥९॥

आदौ विद्वेषणं वक्ष्ये मन्त्रेणानेन पार्वति ।
काकोलूकदलग्रन्थी पवित्रीकृतबुद्धिमान् ॥१०॥

तर्पयेच्छतवारं तु त्रिदिनाद् द्वेषमाप्नुयात् ।
ईक्ष्यकर्ममिदं मन्त्रान्ते त्रिशतं जपेत् ॥११॥

वसिष्ठारुन्धतीभ्यां च भवेद् विद्वेषणं प्रिये ।
महद्विद्वेषणं भूत्वा कुरु शब्दं विना प्रिये ॥१२॥

मन्त्रं त्रिशतमुच्चार्य नित्यं मे कलहप्रिये ।
ग्रामस्थाने ग्रामपदे उच्चार्याष्टशतं जपेत् ॥१३॥

ग्रामान्योन्यं भवेद्वैरमिष्टलाभो भवेत् प्रिये ।
देशशब्दं समुच्चार्य द्विसहस्रं जपेन्मनुम् ॥१४॥

देशो नाशं समायाति अन्योन्यं क्लेशमेव च ।
रणशब्दं समुच्चार्य जपेदष्टोत्तरं शतम् ॥१५॥

अग्नौ नता तदा वायुदिनान्ते कलहो भवेत् ।
उच्चाटनप्रयोगं च वक्ष्येऽहं तव सुव्रते ॥१६॥

उच्चाटनपदान्तं च अस्त्रमष्टोत्तरं शतम् ।
तर्पयेद्भानुवारे यो निशायां लवणाम्बुना ॥१७॥

त्रिदिनादिकमन्त्रान्ते उच्चाटनमथो भवेत् ।
भौमे रात्रौ तथा नग्नो हनुमन्मूलमृत्तिकाम् ॥१८॥

नग्नेन संग्रहीत्वा तु स्पष्टवाचाष्टोत्तरं जपेत् ।
समांशं च प्रेतभस्म शल्यचूर्णे समांशकम् ॥१९॥

यस्य मूर्ध्नि क्षिपेत्सद्यः काकवद् भ्रमते महीम् ।
विप्रचाण्डालयोः शल्यं चिताभस्म तथैव च ॥२०॥

हनुमन्मूलमृद् ग्राह्या बद्ध्वा प्रेतपटेन तु ।
गृहे वा ग्राममध्ये वा पत्तने रणमध्यमे ॥२१॥

निक्षिपेच्छत्रुगर्तेषु सद्यश्चोच्चाटनं भवेत् ।
तडागे स्थापयित्वा तु जलदारिद्र्यमाप्नुयात् ॥२२॥

मारणं सम्प्रवक्ष्यामि तवाहं शृणु सुव्रते ।
नरास्थिलेखनीं कृत्वा चिताङ्गारं च कज्जलम् ॥२३॥

प्रेतवस्त्रे लिखेदस्त्रं गर्तं कृत्वा समुत्तमम् ।
श्मशाने निखनेत्सद्यः सहस्राद्रिपुमारणे ॥२४॥

न कुर्याद्विप्रजातिभ्यो मारणं मुक्तिमिच्छता ।
देवानां ब्राह्मणानां च गवां चैव सुरेश्वरि ॥२५॥

उपद्रवं न कुर्वीत द्वेषबुद्ध्या कदाचन ।
प्रयोक्तव्यं तथान्येषां न दोषो मुनिरब्रवीत् ॥२६॥

॥ समापन ॥

॥ इति सुदर्शन-संहितायाम् आञ्जनेयास्त्रम् ॥

॥ श्री हनुमते नमः ॥
॥ जय श्री राम ॥

Scroll to Top